(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - कर्णपर्व


॥ श्रीः ॥
8.94. अध्यायः 094
Mahabharata - Karna Parva - Chapter Topics
कर्णाल्लंनयोर्युद्धारम्भः॥ 1 ॥ द्रौणिना दुर्योधनाय हिताख्यानम्॥ 2 ॥ तेन तदनादृत्य रणाय सेनानियोजनम्॥ 3 ॥


Mahabharata - Karna Parva - Chapter Text

सञ्जय उवाच। 8-94-0x(5058)(59591)
तद्देतनागासुरसिद्धयक्षै--
र्गन्धर्वरक्षोप्सरसां च सङ्घैः।
ब्रह्मर्षिराजर्षिसुपर्णजुष्टं
बभौ वियद्विस्मयनीयरूपम्॥ 8-94-1(59592)
नानद्यमानं निनदैर्मनोज्ञै--
र्वादित्रगीतस्तुतिनृत्यहासैः।
सर्वेऽन्तरिक्षं ददृशुर्मनुष्याः
खस्थाश्च तद्विस्मयनीयरूपम्॥ 8-94-2(59593)
ततः प्रहृष्टाः कुरुपाण्डुयोधा
वादित्रशङ्खस्वनसिंहनादैः।
विनादयन्तो वसुधां दिशश्च
स्वनेन सर्वान्द्विषतो निजघ्नुः॥ 8-94-3(59594)
नराश्वमातङ्गरथैः समाकुलं
शरासिशक्त्यृष्टिनिपातदुःसहम्।
अभीरुजुष्टं हतदेहसङ्कुलं
रणाजिरं लोहितमाबभौ तदा॥ 8-94-4(59595)
[बभूव युद्धं कुरुपाण्डवानां
यथा सुराणामसुरैः सहाभवत्।]
तथा प्रवृते तुमुले सुदारुणे
धनञ्जयश्चाधिरथिश्च सायकैः।
दिशश्च सैन्यं च शितैरजिह्मगैः
परस्परं प्रावृणुतां सुदंशितौ॥ 8-94-5(59596)
ततस्त्वदीयाश्च परे च सायकैः
कृतेऽन्धकारे ददृशुर्न किञ्चन।
भयातुरा एकरथौ समाश्रयं--
स्ततोऽभवत्त्वद्भुतमेव सर्वतः॥ 8-94-6(59597)
ततोऽस्त्रमस्त्रेण परस्परं तौ
विधूय वाताविव पूर्वपश्चिमौ।
घनान्धकारे वितते तमोनुदौ
यथोदितौ तद्वदतीव रेजतुः॥ 8-94-7(59598)
न चाभिसर्तव्यमिति प्रचोदिताः
परे त्वदीयाश्च तथाऽवतस्थिरे।
महारथौ तौ परिवार्य सर्वतः
सुरासुराः शम्बरवासवाविव॥ 8-94-8(59599)
मृदङ्गभेरीपणवानकस्वनै--
र्निनादिते वाहनशङ्खनिस्वनैः।
तौ सिंहनादैर्बभतुर्नरोत्तमौ
पतङ्गचन्द्राविव दुःसहावुभौ॥ 8-94-9(59600)
महाधनुर्मण्डुलमध्यगावुभौ
सुवर्चसौ बाणसहस्रदीधिती।
दिधक्षमाणौ सचराचरं जग--
द्युगान्तसूर्याविव दुःसहौ रणे॥ 8-94-10(59601)
उभावजेयावहितान्तकावुभा--
वुभौ जिघांसू कृतिनौ परस्परम्।
महाहवे वीतभयौ समीयतु--
र्महेन्द्रजम्भाविव कर्णपाण्डवौ॥ 8-94-11(59602)
ततो महास्त्राणि महाधनुर्धरौ
विमुञ्चमानाविषुभिर्भयानकैः।
नराश्वनागानमितान्निजघ्नतुः
परस्परं चापि महारथौ नृप॥ 8-94-12(59603)
ततो विसस्रुः पुनरर्दिता नरा
नरोत्तमाभ्यां कुरुपाण्डवाश्रयाः।
सनागपत्त्यश्वरथा दिशो द्रुता--
स्तथा यथा सिंहहता वनौकसः॥ 8-94-13(59604)
ततस्तु दुर्योधनभोजसौबलाः
कृपो गुरोश्चापि सुतो महाहवे।
महारथाः पञ्च धनञ्जयाच्युतौ
शरैः शरीरार्तिकरैरताडयन्॥ 8-94-14(59605)
धनूंषि तेषामिषुधीन्ध्वजान्हया--
न्रथांश्च सूतांश्च धनञ्जयः शरैः।
समं प्रमध्याशु परान्समन्ततः
शरोत्तमैर्द्वादशभिन्न सूतजम्॥ 8-94-15(59606)
अथाभ्यधावंस्त्वरिताः शतं रथाः
शतं गजाश्चार्जुनमाततायिनः।
शकास्तुषारा यवनाश्च सादिनः
सहैव काम्भोजवरैर्जिघांसवः॥ 8-94-16(59607)
वरायुधान्पाणिगतैः शरैः सह
क्षुरैर्न्यकृन्तत्प्रपतञ्शिरांसि च।
हयांश्च नागांश्च रथांश्च युध्यतो
धनञ्जयऋ शत्रुगणान्क्षितौ क्षिणौत्॥ 8-94-17(59608)
ततोऽन्तरिक्षे सुरतूर्यनिःस्वनाः
ससाधुवादा हृषितैः समीरिताः।
निपेतुरप्युत्तमपुष्पवृष्टयः
सुरूपगन्धाः पवनेरिताः शुभाः॥ 8-94-18(59609)
तदद्भुतं देवमनुष्यसाक्षिकं
समीक्ष्य भूतानि विसिस्मियुस्तदा।
तवात्मजः सूतसुतश्च न व्यथां
न विस्मयं जग्मतुरेकनिश्चयौ॥ 8-94-19(59610)
अथाब्रवीद्द्रोणसुतस्तवात्मजं
करं करेण प्रतिपीड्य सान्त्वयन्।
प्रसीद दुर्योधन शाम्य पाण्डवै--
रलं विरोधेन धिगस्तु विग्रहम्॥ 8-94-20(59611)
हतो गुरुर्ब्रह्मसमो महास्त्रवि--
त्तथैव भीष्मप्रमुखा महारथाः।
अहं त्ववध्यो मम चापि मातुलः
प्रशाधि राज्यं सह पाण्डवैश्चिरम्॥ 8-94-21(59612)
धनञ्जयः स्यास्यति वारितो मया
जनार्दनो नैव विरोधमिच्छति।
युधिष्ठिरो भूतहिते रतः सदा
वृकोदरस्तद्वशगस्तथा यमौ॥ 8-94-22(59613)
त्वया तु पार्थैश्च कृते च संविदे
प्रजाः शिवं प्राप्नुयुरिच्छया तव।
व्रजन्तु शेषाः स्वपुराणि पार्थिवा
निवृत्तवैराश्च भवन्तु सैनिकाः।
न चेद्वचः श्रोष्यसि मे नराधिप
ध्रुवं हि तप्तोऽसि हतोऽरिभिर्युधि॥ 8-94-23(59614)
वृद्धं पितरमालोक्य गान्धारीं च यशस्विनीम्।
कृपालुर्धर्मराजो हि याचितः शममेष्यति॥ 8-94-24(59615)
यथोचितं च वै राज्यमनुज्ञास्यति ते प्रभुः।
विपश्चित्सुमतिर्वीरः सर्वशास्त्रार्थतत्त्ववित्॥ 8-94-25(59616)
वैरं नेष्यति धर्मात्मा स्वजने नास्त्यतिक्रमः।
न विग्रहमतिः कृष्णा स्वजने प्रतिनन्दति॥ 8-94-26(59617)
भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ।
वासुदेवमते चैव पाण्डवस्य च धीमतः।
स्थास्यन्ति पुरुषव्याघ्रास्तयोर्वचनगौरवात्॥ 8-94-27(59618)
रक्ष दुर्योधनात्मानमात्मा सर्वस्य भाजनम्।
जीवने यत्नमातिष्ठ जीवन्भद्राणि पश्यति॥ 8-94-28(59619)
राज्यं श्रीश्चैव भद्रं ते जीवमाने च कल्पते।
मृतस्य तु खलु कौरव्य नैव राज्यं कुतः सुखम्॥ 8-94-29(59620)
लोकवृत्तमिदं वृत्तं प्रवृत्तं पश्य भारत।
शाम्य त्वं पाण्डवैः सार्धं शेषं रक्ष कुलस्य च॥ 8-94-30(59621)
मा भूत्स कालः कौरव्य यदाऽहमहितं वचः।
ब्रूयां कामं महाबाहो माऽवमंस्था वचो मम॥ 8-94-31(59622)
धर्मिष्ठमिदमत्यर्थं राज्ञश्चैव कुलस्य च।
एतद्धि परमं श्रेयः कुरुवंशस्य वृद्धये।
प्रयाहि तं च गान्धारे कुलस्य च सुखावहम्॥ 8-94-32(59623)
पथ्यमायतिसंयुक्तं कर्णोऽप्यर्जुनमाहवे।
न जेष्यति नरव्याघ्र इति मे निश्चिता मतिः॥ 8-94-33(59624)
रोचतां ते नरश्रेष्ठ ममैतद्वचनं शुभम्।
अतोऽन्यथा हि राजेन्द्र विनाशः सुमहान्भवेत्॥ 8-94-34(59625)
इदं च दृष्टं जगता सह त्वया
कृतं यदेकेन किरीटमालिना।
यथा न कुर्याद्बलभिन्न चान्तको
न च प्रचेता भगवान्न यक्षराट्॥ 8-94-35(59626)
अतोऽपि भूयान्स्वगुणैर्धनञ्जयो
न चातिवर्तिष्यति मे वचोऽखिलम्।
तवानुयात्रां च सदा करिष्यति
प्रसीद राजेन्द्र शमं त्वमाप्नुहि॥ 8-94-36(59627)
ममाभिमानः परमः सदा त्वयि
ब्रवीम्यतस्त्वां परमाच्च सौहृदात्।
निवारयिष्यामि च कर्णमाहवे
महान्हि मेऽस्ति प्रणयोऽथ सूतजे॥ 8-94-37(59628)
वदन्ति मैत्रीं सहजां विचक्षणा--
स्तथैव साम्ना च धनेन चार्जिताम्।
प्रतापतश्चोपनतां चतुर्विधां
तदस्ति सर्वं तव पाण्डवेषु॥ 8-94-38(59629)
निसर्गतस्ते तव वीर बान्धवाः
पुनश्च साम्ना हितमाप्नुयुः प्रभो।
त्वयि प्रसन्ने यदि मित्रतां गते
हितं कृतं स्याज्जगतस्त्वयाऽतुलम्॥ 8-94-39(59630)
इतीदमुक्तः सुहृदा वचो हितं
विचिन्त्य निःश्वस्य च दुर्मनाऽब्रवीत्।
यथा भवानाह सखे तथैव त--
न्ममापि विज्ञापयतो वचः शृणु॥ 8-94-40(59631)
निहत्य दुःशासनमुक्तवान्बहु
प्रहस्य शार्दूलवदेष दुर्मतिः।
वृकोदरस्तद्वृदये मम स्थितं
न तत्परोक्षं भवतः कुतः शमः॥ 8-94-41(59632)
न चापि कर्णं प्रसहेद्रणेऽर्जुनो
महागिरिं मेरुमिवोग्रमारुतः।
न चाश्वसिष्यन्ति पृथात्मजा मयि
प्रसह्य वैरं बहुशो विचिन्त्य॥ 8-94-42(59633)
न चापि कर्णं गुरुपुत्र संयुगा--
दुपारमेत्यर्हसि वीर भाषितुम्।
श्रमेण युक्तो महताद्य फल्गुन--
स्तमेष कर्णः प्रसभं हनिष्यति॥ 8-94-43(59634)
`वसुन्धरायाः परिवर्तनं भवे--
द्व्रजेच्च शोषं मकरालयोऽर्णवः।
प्लवेयुरप्यद्रिवरा महाम्बुधौ
न चार्जुनो जेष्यति कर्णमाहवे॥ 8-94-44(59635)
अपां पृथिव्या नभसो नभस्वतः
सुतिग्मदीप्तेश्च हिरण्यरेतसः।
अभाव एषामपि सर्वतो भवे--
न्न चार्जुनो जेष्यति कर्णमाहवे'॥ 8-94-45(59636)
तमेवमुक्त्वाऽप्यनुनीय चासकृ--
त्तवात्मजः स्वाननुशास्ति सैनिकान्।
द्रुतं घ्नताभिद्रवताहितानिमा--
नहीनसत्वाः किमु जोषमासते॥ ॥ 8-94-46(59637)

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे चतुर्नवतितमोऽध्यायः॥ 94 ॥

Mahabharata - Karna Parva - Chapter Footnotes
8-94-6 एकौ मुख्यौ रथौ रथिनौ कर्णार्जुनौ॥ 8-94-7 तमोनुदौ सूर्यबन्द्रौ॥ 8-94-8 नच अभिसर्तव्यं नापयातव्यमिति नियमेन प्रचोदिताः प्रेरिताः॥ 8-94-23 ध्रुवं हि तप्तासि इति क.ख.ड.पाठः॥ 8-94-41 दुःशासनमुक्तवान्वच इति झ.पाठः तत्र वचो दुर्योधनस्य हतस्य शिरः पदा ताडयिष्यामीत्येवंरूपम्॥ 8-94-94 चतुर्नवतितमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.